________________
[१२०]
योगअर्धस्विन्नयवादीनां, गोधूम मुद्गवस्तुनः । अनाभोगादि रूपेण कृतं तेषाश्च भक्षणम् ॥७॥ पञ्चमोह्यतिचारश्च, सप्तमे प्रतिपादितः। नादर्तव्यश्च ज्ञातव्यः, सप्तमव्रतकांक्षिणा ॥७॥ कन्दर्पश्चैव कौकुच्यः, मौखर्यमविचारता। उपभोगाधिकत्वंच, युक्ताधिकरणं तथा ॥८॥ असमीक्ष्य समारंभः अष्टमे प्रतिपादितः। अतिचाराश्च बोधव्याः व्रतरक्षणकांक्षिभिः ॥१॥ रागोदयेन हास्यादि प्रयुक्तासभ्यवादिता । कन्दर्पः सोऽथ विज्ञयः अतिचारोऽष्टमे मतः॥२॥ मोहोदयेन हास्यादि, युक्तासभ्यप्रलापिता। तदर्जनकृतकायेनाऽसभ्यव्यापार-कारणम् ॥८॥ कौकुच्यं तच्च विज्ञयं, अतिचारो द्वितीयकः । कर्तव्यं न कदाप्येवं, अनाचारस्य कारणम् ॥८४॥ असंबद्धकहास्यादि, असम्बद्धवचस्विता। असंबद्ध प्रलापित्वं, मौखयं तन्निगद्यते ॥८॥ शकटेन युगं चैव, उदुखलेन मूशलम् । कामु केन शरादिश्च, संयोज्य गृहरक्षणम् ॥८६॥