________________
-प्रदीप
[१६) शतयोजनमन्यत्र, सहस्रादिकमेकतः। यावत्प्रमाणकं दिक्षु, कृतं तेन व्रतार्थिना ॥ ६६ ॥ गमने कारणं नैव, सहस्त्रयोजनेषु वै। शतयोजनगन्तव्ये, प्रसङ्गो जायते बहु ॥७॥ अतो लोभवशेनैव, अन्वस्मिश्चान्यक्षेपणम् । कृतं समीकरत्वाय, क्षेत्रवृद्धिस्ततो मता ॥७॥ सचित्तं तेन संबद्ध, सचित्तमिश्रणं तथा। अभिषवश्च दुष्पक्वः मता पञ्चातिचारता ॥७२॥ कन्दमूलफलादीनां, सचित्तानाञ्च भक्षणम् । सचित्ताहारकर्तव्ये, ह्यतिचारश्च सप्तमे ॥७३॥ पादपादिसचित्तेन, संघद्धा गुन्द्रवस्तुता। फ्क्वफलसचित्तादावन्तवर्तिश्च बीजतः ॥७॥ अनाभोगादिरूपेण, कृतं तस्य च भक्षणम् । सचित्तसंयुताहारः, अतिचारो द्वितीयकः ॥७॥ अनेकद्रव्यसंधाननिष्पन्नानां परिश्रुताम् । मांसप्रकार खंडानामासवानां तथैव च ॥७॥ अनाभोगादि रूपेण कृतं तेषां तु भक्षणम् । .. अभिषव इतिख्यातश्चतुर्थः सप्तमे मतः ॥७॥