________________
-प्रदीप mmmmmmmmmmmmmmm
[१२३]
पुद्गलक्षेपनामाख्याः, दशमे चातिचारता ॥१०॥ संदेशादि प्रदानेन, सचित्तादिकवस्तुनः। आनयनं वितन्येत, दशमे प्रथमो मतः ॥१०॥ अभिगृहीत देशानां, व्यतिक्रम भयादितः। भृत्यं प्रेष्य त्वयानेयं, मदीयञ्च गवादिकम् ॥१०॥ प्रेरणेति च कर्तव्ये, प्रेष्यप्रयोगनामकः। अतिचारश्च मन्तव्यः, देशावकाशिके व्रते ॥१०७॥ स्वगृहभूमि देशानां, पूर्वमभिग्रहः कृतः। पश्चादुत्पन्न हेतौतु, किञ्चिद्व्याजं विधीयते॥१०॥ उच्छ्वासादि कृतेनैव, अन्येषां प्रतियोधनम् । शब्दानुपातरूपोऽयं, दशमे स्यात्तृतीयकः ॥१०॥ स्वगृहभूमि देशानां, पूर्वमभिग्रहः कृतः। पश्चादुत्पन्न हेतौ च, छलं किञ्चिद्वेष्यते ॥११०॥ स्वाकारालोकनेनैव, अन्येषां प्रतिबोधनम् । रूपानुपातरूपोऽयं, चतुर्थो दशमे मतः ॥११॥ नियमित प्रदेशादेः, बहिः स्थित जनस्य वै । ज्ञापनार्थश्च लोष्टादि, स्वप्रदेशात्प्रक्षिप्यते ॥११२॥