________________
[ ११२ ]
योग -
विशेषतः ॥७॥
व्यतिक्रमाभिधानं स्यादुल्लंघने दायकगृहसंप्राप्ते, आहारग्रहणे सति । अतिचारस्तु विज्ञेयः, त्रिश्रेणिभ्यः प्रपाततः ॥८॥ आहारादानतः पश्चाद भुंक्ते गत्वा गृहान्तरे । भोजने खल्वनाचारः, अनाचारस्य सेवनात् ॥६॥ योग्यप्रायश्चिती भूता, स्खलना परिकीर्तिता । चतुर्थी स्खलनायां तु, प्रायश्चित्तं महन्मतम् ॥१०॥ अज्ञातभावतः कश्चित् करोत्येवं विधां क्रियाम् । प्रायश्चित्तस्य तत्रैव, ग्रहणार्हो निगद्यते ॥ ११॥ यदि च ज्ञातभावेन, त्रिश्रेणिमुपगच्छति । तथाऽपि हृदि सद्भावात् प्रायश्चित्तस्य योग्यता ॥ १२॥ परिणामेन योग्यत्वं ज्ञातव्यं ज्ञानिभिः सदा । ततः प्रायश्चितं देयं, दानेऽन्यथा तु दण्ड्यते ॥१३॥ व्रतार्थिनाऽतिचाराश्च, सेवनीया न वै कदा | पापभीरुः कथं पापं, सेवते ज्ञातभावतः ॥१४॥ विस्मरणात्कदाप्येवं, सेवति चातिचारकम् ।
१ - उपाश्रये
२ प्राप्नोति ।
/