SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [१०६ } - योग यथा हंसो जलं त्यक्त्वा,दुग्धं पीबति वैपृथक्॥२८०॥ स्वानुभवेन हंसेन, कर्मविवेचनं कृतम् । स्थानकं प्रथमं संज्ञ, द्वितीयं प्रतिपाद्यते ॥२८॥ आत्मा नित्यस्वरूपोऽयं अनुभूतश्च सर्वदा। जन्मनैव यथा बालः, स्तन्यपानं विधीयते ॥२८२॥ पूर्वभवीय संस्काराद, विना पीवति वै कथम् । यदि पीतं तदावान्ति,क्रियते च कथं नु वै ॥२८॥ अतः पूर्वभवाभ्यासः, तत्र किं नानुमीयते । दानादिकक्रियाणाश्च,फलं तु पारलौकिकम् ॥२८॥ अतो नित्यः स मन्तव्यः, देवमनुष्यकस्यवै। अनित्यत्वञ्च पर्यायात्, नित्योद्रव्येण कथ्यते॥२८॥ नित्यानित्यत्वरूपेण, चिन्तनं यच्च तन्यते । द्वितीय स्थानकं ज्ञेयं, तृतीयं प्रणिगद्यते ॥२८६॥ दण्डयोगात्कुलालश्च, क्रियते वे घटो यथा । तथा कर्मप्रयोगेन, जीवैर्देहश्च तन्यते ॥२८॥ गुणकर्ता स्वरूपाच, कर्मकृत् पररूपतः । सुग्रामनगरादीनां, कर्ताऽपि व्यवहारतः ॥२८॥ पुण्यपापफलानाच, भोक्तात्मा परिज्ञायते ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy