________________
-प्रदीप
[१०७] शरीरादिकभोग्यानां,भोक्ताऽपि चानुमानतः॥२८६॥ व्यवहारनयेनैवं, विज्ञयं बुद्धिशालिना। निश्चयतो गुणानांव,भोक्ता च प्रणिगयते ॥२६॥ चतुर्थस्थानकं तच, पञ्चमञ्च प्रकाश्यते। अनन्तसुखरूपैव, निश्रेयः पदता स्थिरा ॥२६॥ आधिव्याध्यादिराहित्यं, क्षायिकसुखपोषणम् । स्थानकं पञ्चमं तादृक् , षष्ठं स्थानकमुच्यते॥२६२॥ ज्ञानक्रियातया मोक्षः, इति सम्यक् विचार्यताम्। सहजतो हि सर्वेतं, गमिष्यन्तिनकर्हि चित्॥२६॥ ज्ञानवादी वदत्येवं, सत्यञ्च ज्ञानमेवहि । क्रियाज्ञानं विना नैव, तज् ज्ञानं किंकरिष्यति॥२६॥ शुक्तौ रजतभ्रान्त्या तु, गमने रजतं न वै। अतः सत्यं तु विज्ञेयं, ज्ञानमेव जगत्त्रये ॥२६॥ क्रियां विना क्रियावादी, तज्ज्ञानं किं करिष्यति । ज्ञानेन किं तरिष्यन्ति हस्तप्रचालनं विना ॥२६६॥ भोजनादिकसामग्री, समीपे परितिष्ठति । गच्छति किं मुखे ग्रासः हस्तेन ग्रहणं विना ॥२६॥ अतः सत्या क्रियाज्ञेया ज्ञानं तु निष्फलं मतम् ।