________________
-प्रदीप
[१०३ वन्दना करयोगेन, नमनं मस्तकेन वै। अभीष्टान्नादि दानेन, गौरवश्च प्रकाश्यते ॥२५४॥ वन्दनादिक सर्व तत्, यतनायाः फलं मतम् । दानादिका द्वितीया सा,यतना शुभभावजा ॥२५॥ पुनः पुनः प्रदानं यत्, चानुप्रदानमुच्यते । सुपात्रे मोक्षहेतुत्वं, दाने करुणता न वै ॥२५॥ कुपात्रे करुणा-बुड्या, दीयतां व्यवहारतः। पात्रा-पात्रविचारो न, अनुकम्पासु सम्मतः ॥२५७॥ यो विना जल्पनं ब्रूयात्, स आलापो निगद्यते । मुहुर्मुहुश्च ह्यालापंकुर्वन् संल्लापको मतः॥२५॥ यतनाऽतोऽपि सम्यक्त्वं, दीप्यते व्याहृतिश्चवै। दीप्यते कारणात् सा वै,यतना नैक भेदतः॥२५६॥ चलन्ति शुद्ध-धर्मान्न, सम्यत्तवदृढ़पालकाः। आकाराः स्युर्नवैतेषां, चान्येषामुपकारकाः ॥२६॥ पुरप्राकार तुल्यास्ते, आकाराः परिभाषिताः । प्राकारो न विनाद्वारमाकारा स्तादृशा मता॥२६॥ आकाराषट च बोद्धव्याः, सम्यक्त्व रक्षका मताः। राजागणाभियोगौ च, बलदेवाभियोगको ॥२६२॥