SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [१०२ ] योग भवभ्रमणभीतो यो, यथा च निगडादिषु ॥ २४५ ॥ नारकादि भवभ्रान्त्या, भवोद्व ेगः प्रजायते । तारकं न विना धर्मात्, स्वान्ते किञ्चित्तु मन्यते ॥ २४६॥ भवो गस्वरूपं वै निर्वेदः परिकथ्यते । दीनेष्वार्त्तेषु भीतेषु, याचमानेषु जीवितम् ॥२४७॥ येन केन प्रकारेण तद्दुःखं परिणाशयेत् । द्रव्यानुकम्पनं तच्च भावतस्तु निगद्यते ॥ २४८॥ धर्महीनेषु जीवेषु, धर्म्मप्राप्तिः प्रकार्य्यते । धर्म-प्राप्तेश्च सल्लाभस्तद्धि भावानुकम्पनम् ॥ २४६॥ जिनेन वीतरागेण भाषितं नान्यथा किल । मनसि वाचि काये च तादृशी यस्य भावना ॥ २५० ॥ आस्तिकता तदा ज्ञेया, पञ्चमं लक्षणं स्मृतम् । एतच्चिह्न ेन विज्ञेया, श्रद्धावन्तो जना इमे ॥ २५९ ॥ षड् यातना विचारस्तु, क्रियते सुख हेतवे । सर्वजीवैश्च कर्त्तव्यो, जैनशासनवेदिभिः ॥ २५२॥ कुतीर्थिना गृहीतानि, अर्हच्चैत्यानि सर्वथा । , तत्र वन्दन कार्याणि कर्त्तव्यानि न वै कदा ॥ २५३ ॥ १ – स्वरूपनामा ,
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy