SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ -~प्रदीर [१०] शुद्धाशनेन साधूनां,भक्तिःप्रकाश्यते सदा ॥२३६॥ तृतीयं भूषणं ज्ञेयं, भक्तिरूपं प्ररूपितम् । श्रद्धातश्चालनोपायो, येन केन कृते सति ॥२३७॥ चित्ते चञ्चलता नैव, प्राणान्तेऽपि विधीयताम् । चतुर्थ भूषणं ज्ञेयं, श्रद्धानं शुद्धिमिच्छता ॥२३॥ “शासनस्यानुमोदित्वं, येन कृत्येन जायते। प्रत्यहं धर्मरागश्च, सर्वेषां हृदये तथा ॥२३॥ ताह कार्यश्च कर्तव्यं, शासनस्यानुमोदिना । भूषणं पश्चमं ज्ञेयं, वीतरागत्वमिच्छता ॥२४०॥ लक्षणानि विवोध्यानि, दर्शनज्ञापकानि वै। सापराधिषु जीवेषु, हेया मनो मलीनता ॥२४॥ वक्तव्या वाग् विचार्यैव, लक्षणं प्रथमं मतम् । देवमानवसौख्यानां, दुःखरूपेण चिन्तनम् ॥२४२॥ मुखपश्चाच दुःखं वै, तत् सुखं नैव गीयते । एकान्तसुखता यत्र, दुःखलेशो न वैकदा ॥२४३॥ क्षायिकं च सुखं सत्यमन्यश्च दुःख रूपकम् । यस्य सा सुखप्राप्तिस्यात्,मुखीति प्रणिगद्यते॥२४४॥ संवेगाख्यं द्वितीयं च, तृतीयन्तु निगद्यते ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy