________________
-प्रदीप रस्जयत्युपदेशेन, भनक्ति परसंशयान् ॥२१८॥ श्रद्धां द्रढीयते स्वस्य, स्वात्मानं रञ्जयन्ति वै । तादृशो धर्मवक्ता वै, विज्ञ यो धर्मकांक्षिणा॥२१६॥ स्वपरमतसंवेद्य, तर्ककौशलशालिना। समयसूचिकाबुद्धिर्ज्ञातव्या मल्लवादिनः ॥२२०॥ विद्वज्ज्ञान सभायाश्च, केनचिन्नाभिभूयते । प्रौढ़पाण्डित्ययुक्तश्च,तृतीयोऽपि प्रभावकः ॥२२१॥ यशोविजयमुख्याश्च यथा च धर्मसूरयः । काशिराजसभायाश्च, जयश्री प्राप्नुवन्तिते॥२२२॥ निमित्तकं यथार्थ वै, यो वक्ति भद्रबाहुवत् । वितथलेशता नैव, चतुर्थः स प्रभावकः ॥२२॥ तपोगुणेन देदीप्तः, धर्मरोपकता सदा । आवरोधकर्ता वै, कोपेन वर्जितः सदा ॥२२४॥ नन्दिषेणो मुनिर्वै तु, पञ्चमोऽपि प्रभावकः । मन्यते सर्वदा चैव,जिनाज्ञांप्राणतोऽधिकाम्॥२२५॥ विद्यामन्नादिभिर्युक्तो, वज्रस्वामिसमो मतः । शासनोन्नतिकर्ता च, बौद्धप्रदेशके यथा ॥२२६॥ षष्ठः प्रभावको ज्ञयः, राज्ञश्च प्रतिबोधकः ।