________________
[ ६८ ]
योग
मोक्षकारणता ज्ञेया, परा स्वर्गफलादिका ॥ २०६ ॥ फलं मनसि नेष्टव्यं, फलेन किं प्रयोजनम् । यथा धान्यस्य वापेन, मिलिष्यति न किं तृणम् ॥ २१०॥ मिथ्यामतौ गुणाश्चैव तद्रूपेणैव संगताः । संयोगेन विषस्यैव, दुग्धं विषायते यथा ॥ २११॥ तथा मिथ्यात्व संयोगे, गुणो मिथ्या स्वरूपकः । तद्गणानाञ्च श्लाघावै, मिथ्यावर्णन सदृशी ॥ २१२ ॥ अतो न वर्णनं कार्य्यं, सम्यक्त्व गुणशालिना । बालानां दुख हेतुः स्यात्त्याज्यं च तूर्य्य दूषणम् ॥ २१३॥ उन्मार्गेषु प्रगन्तॄणां स्तवमुन्मार्गपोषणम् । कदापि नैव कर्तव्या, अत उन्मार्गिनां स्तुतिः ॥ २१४॥ मिथ्यात्विनां सहावासः, कर्तव्यो न हि कर्हिचित् । संसर्गकरणात्तेषां दोषः प्रत्युत सर्वदा ॥ २१५ ॥ दोषायन्ते गुणाव, विषमिश्रितधान्यवत् । न केsपि प्राप्तुमिच्छन्ति, गुणांश्च दोषमिश्रितान् ॥ २१६ अष्टौ प्रभावका ज्ञेया, धूय्य: प्रावचनी मतः । विद्यमानश्रुतार्थानां ज्ञातारो भवभीरवः ॥ २९७ ॥ द्वितीय धर्म्मवक्ता, नन्दिषेणो महामुनिः ।