________________
[१६]
योगएषां दशविधानांच,भक्तिभावो वितन्यताम्॥१६॥ हृदये बहुमानेन, वाह्या भक्तिश्च वन्दनैः। गुणस्तुतिविधानेन, अपगुणस्य छादनात् ॥१६२॥ आभ्यान्तराश्च विज्ञ या, आशातना प्रहेयतः। बिनयो दशधा चैव, कथितो जैन शासने ॥१६॥ शास्त्रेषु त्रिविधा शुद्धिः, कथिता शुद्धिवेदिभिः । तासां रूपाणि कथ्यन्ते,स्वकीय शुद्धिमिच्छत॥१६४ प्रथमोक्ता मनः शुद्धिः, वाक् छुद्धिस्ततोऽपरा । कायशुद्धिस्तृतीया च, अतोऽन्या नैव विद्यते।१६॥ वीतरागं बिना देवं, बिना च जैनशासनम् । नान्यजगति सत्यंसा, मनः शुद्धिनिरूपिता ॥१९॥ जिनभक्तर्नभूतं यत्, अन्यतस्तत् कथं भवेत् । षस्यवचनमेताहक्, बाक् शुद्धिश्च सामता ॥१६॥ सेहे बद्धत्वभावेन, छेद्यभेद्यादिवेदनाम् । जिनदेवं विनानान्यं, नमामि प्रलयेऽपिच ॥१६॥ स्वान्ते यस्य मतिरेषा, कायशुद्धिस्तु सामता । वर्जनीयं सदा शीघ्र, शास्त्रेच पञ्चदूषणम् ॥१६॥ धर्मवादेन तत्वानां, दृढाय गुरुसन्निधौ ।