________________
-प्रदीप
[१५] जिनागमस्य जिज्ञासा, श्रोतृ श्रुतौच सर्वदा ॥१८२॥ मधुरस्तु रसोयत्र, द्राक्षाखण्डादितोऽधिकः । लिङ्ग तत्प्रथमंज्ञेयं, द्वितीयंतु निगद्यते ॥१८॥ तरुण्यास्तरुणेनैव, संयोगेन यथारसः । सुरगीतश्रुतौरागः, धर्म श्रुतौ ततोऽधिकः ॥१८४॥ बुभुक्षितद्विजोऽरण्यमुत्तीर्य धृतपूरकम् । यथेच्छति तथा धर्म, श्रवणेच्छा प्रजायते ॥१८॥ देवगुर्वोश्च कर्त्तव्यं, वैयावृत्यं सुभावतः । तृतीयलिङ्गताज्ञया, विनयत्वं प्रकाश्यते ॥१८६॥ सयोगिकेवलिस्था ये, अर्हन्तस्ते उदाहृताः । सम्पूर्णकर्मदग्धाये,सिद्धास्ते प्रतिपादिताः ॥१८॥ चैत्यशब्देन सुग्राह्या, जिनस्य प्रतिमा सदा। क्षमादि दशधा धर्मः, तस्याकराश्च साधवः॥१८॥ दायका नायकाश्चैव, पश्चाचारस्य पालकाः । आचार्यास्ते च ज्ञातव्याः,पाठकः प्रणिगद्यते॥१८६॥ पाठयिता च सूत्राश्च, शिष्यांश्चैव दिवानिशम् । उपाध्यायस्तु बोधव्यः, सूत्रानुसारतःखलु २६०॥ तत्प्रवचनसंघानां, दर्शनानां तथैव च। ...