________________
[१४]
योग
पञ्च लक्षणताज्ञया, षड् यत्नाश्च प्रपञ्चिताः॥१७॥ षड्भावना षडागाराः, कथितं पञ्चभूषणम् । पञ्च लक्षणता ज्ञया,षड् यत्नाश्च प्रपञ्चिताः ॥१७४॥ जीवाऽजीवानि तत्वानि, प्रोक्तानि जैन दर्शने । परमार्थेन तेषाञ्च, भावार्थस्य विचारणा ॥१७॥ श्रद्धानमाद्यमेतच्च, द्वितीयं प्रणिगद्यते । तदर्थानाञ्चज्ञातारः, मुनयः शुद्धभाषिणः ॥१७६॥ संवेगरंगतारंगे, स्नातकाः परमार्थतः । शुद्धमार्गोपदेष्टारः, ते सेव्याः शमभावतः ॥१७॥ सम्यक्त्व वान्तिकर्तारः, यथाच्छंदक निहिवाः । कुशीलाश्चेव पार्श्वस्थाः, वेषविडम्ब कास्तथा ॥१७८॥ अज्ञानिनस्तु हेयास्स्यु, तच्छ्रद्धानं तृतीयकम् । मिथ्यादृष्टेश्च संगस्तु, त्यजनीयश्च सर्वदा॥१७६॥ यथा गाङ्गीयतोयानि, गतानि लवणोदके । तत्संयोगेन क्षारत्वं, प्राप्तं वै नाऽत्रसंशयः ॥१८॥ तथा मिथ्यात्विनो योगात्, तत्वमतत्वरूपतः । परिणमति दुर्योगात्, कुशीलानांच योगतः ॥१८१॥ श्रद्धधानं चतूथं तत्, वलिङ्गमथ कथ्यते ।