________________
-प्रदीप
[६३| नैश्चयिकश्च सम्यक्त्वं, कथितं ज्ञान भानुभिः॥१६४॥ ज्ञानादिकन्तु नोदत्ते, निर्वाणं दर्शनं विना । ततश्च दर्शनं श्रेष्ठं, ज्ञायतां धर्म मर्मतत्॥१६॥ प्राप्यते देश चारित्रं, सम्यक्त्व प्राप्य कैश्चन । सर्वविरतिप्राप्त्यनन्तरमन्तर्मुहूर्तके ॥१६॥ केवल ज्ञानतां प्राप्ये, मोक्षं गच्छन्ति केचन । केचित्क्रमेण गच्छन्ति, जीवविशेषकारणम् ॥१६७॥ देशतो विरतिं प्राप्य, संख्यातसागरोपमम् । स्थितीनां क्षयतस्सर्व, विरतिं याति निर्मलाम॥१६८ तावत्स्थितिकतानाशे, नोपशमश्रेणितांब्रजेद् । यावस्थिति क्षयाच्चैव, क्षपक क्षेणिता भवेत्॥१६॥ यत्र घातिक्षयं कृत्वा, केवलज्ञानभाग्भवेत । शैलेशीञ्च ततःप्राप्य, निर्वाणं परिगच्छति ॥१७०॥ औत्सर्गिकक्रमोज्ञयः, सर्वमेतच्च प्रायिकम् । आपवादिक मार्गेषु, नैवं विधः क्रमोऽपिच ॥१७॥ श्रद्धानानि हि चत्वारि, लिङ्गानि त्रिविधानिच । विनयो दशधाप्रोक्तः, त्रिशुद्धिःपञ्चदूषणम् ॥१७२॥ अष्टौ प्रभावकाः ख्याताः, कथितं पश्च भूषणम् ।