________________
[१०]
योगउदयागतमिथ्यात्वं, चानुभवेन नश्यति ।। अनुदयस्य रोधेन, उपशमो विधीयते ॥१३८॥ उपशमेतु भवेद्याक्, तादृक्षायोपशामिके। क्रमेतुभिन्नतानास्ति,नाम्नोश्चभिन्नता कथम्।१३६॥ सर्वथोपशमोज्ञ यः, मिथ्यात्वस्य च पूर्वके । परे मिथ्यादयश्चैव, शुद्धपुनोदयस्तथा ॥१४॥ द्वयोर्मध्ये च कस्याऽपि, नोदयः प्रथमे मतः। प्रथम च ततः शुद्ध, द्वितीयं नहि तादृशम्॥१४॥ अन्तर्मुहूर्तिकं ज्ञयमौपशमिकता च वै। क्षायोपशमिकस्याऽपि, कालमानविधीयते॥१४२॥ सागरोपम षट् षष्टिः, द्विनरभवताधिका । क्षायोपशमकालश्च, अपरश्च निगद्यते ॥१४३॥ पौद्गलिकं द्वितीयश्च, प्रथम नैव तादृशम् । एतद्भेदेन भेदोऽपि, ज्ञातव्यो दर्शनार्थिना ॥१४४॥ क्षायिकस्य स्वरूपं तत्, कथ्यते गुरुयोगतः । प्रथमानां कषायाणां, दर्शनादि त्रयस्य च ॥१४॥ एषां सप्तकमोहानां, सर्वथा परिनाशतः।
? परस्मिन् ।