________________
-प्रदीप
[८६] निगद्यते स्वरूपं वै; क्षायोपशमिकस्य हि ॥१३०॥
औपशमिकजीवश्च, स्थितमिथ्यात्व कर्मकः । मिथ्यात्वमलशोधाय, बहु यत्नं करोति वै ॥१३१॥ तत्कालं मलशुध्या च, शुध्यन्ति कतिचित्तथा । कतिचिदर्धशुद्धानि, अशुद्धानि पराण्यपि ॥१३२॥ सम्यक्त्वमोहरूपाणि, शुद्धानि कथितानि च । अर्द्ध शुद्धानि मिश्राणि, अशुद्ध प्रथमंतथा ॥१३३॥ मलीनवस्त्रप्रच्छाये, दीपाग्रे न प्रकाशता । प्रतिभान्ति तमांस्येव, मिथ्यात्वोदय प्राप्तये॥१३४॥ मलीन वस्त्र निष्कासे, प्रदीपस्तु प्रकाशते । तथामिथ्यात्वनिष्कासात्,श्रद्धादीपःप्रदीप्यते॥१३॥ वृद्धिंगते च सद्भावे, शुद्धपुञ्जस्य वेदनात् । क्षायोपशमिकी श्रद्धा, प्रकटंयाति तत्क्षणात्॥१३६॥ मिश्रोदयात्तु मिश्रश्च, मिथ्यादृष्टिस्त्वशुद्धके । यादृशं क्रियते कार्य, तादृशं फलमश्नुते ॥१३७॥
१ अवशिष्ट मिथ्यात्वकर्मणां मध्यं स्थित मिथ्यात्व मलशाधाय । २ मलनिवस्त्राक्छादिते दीपकाग्रे प्रकाशोऽवरुध्यते । ३ मिथ्यात्योदयेतथा ।