________________
[ ८ ]
योग
सर्वज्ञोक्तस्य धर्माद्धि, ऋते स्वप्ने न मन्यते । तत्त्वं तत्त्वस्वरूपं च जानाति धर्म्मरागतः ॥ १२२॥ देवे देवत्वबुद्धिर्या, गुरौ च गुरुता मतिः । धर्मेधर्मत्व या बुद्धिः, सा सम्यक्त्वं निगद्यते ॥ १२३॥ अनेकान्तिकता सर्व-, पदार्थे परिमन्यते । श्रीव्योत्पादव्ययेनाऽपि, युक्तं तत्वं निगद्यते ॥ १२४॥ वन्ध्यापुत्रसमं चान्यत्, सर्वं तद्रहितं यदा । वस्तुस्वभावधर्मोऽपि यथार्थं हृदि धार्यते ॥ १२५॥ प्राणान्तकष्ट जातेऽपि, आस्तिकत्वं न मुच्यते । धर्म श्रवण सद्रागः, महान्स्वान्ते प्रजायते ॥ १२६ ॥ संप्राप्तयौवना या तु, कामिनी सा विवाहिता । आद्य समागमे तस्याः, रागो यादृक् प्रजायते ॥ १२७॥ ततोऽनन्तगुणो रागः, धर्म्मश्रुतौ स्वभावतः । क्षुधितस्य च मिष्टान्न, लाभादप्यधिको मतः ॥ १२८ ॥ हेये हेयत्व बुद्धिश्च, उपादेये ह्ययता । ज्ञेये ज्ञेयत्व ज्ञानञ्च, सम्यक्त्वात्परिजायते ॥ १२६ ॥ मिथ्यात्वोपशमाज्जाता, औपशमिकता मता ।
१ - उपादानता