________________
-प्रदीप
[१]
जातक्षायिकसम्यक्त्वं, मोक्षमार्गप्रदर्शकम्॥१४६॥ पूर्वोक्त-त्रय-पुश्चानां, मध्येचाशुद्धमिश्रयोः । क्षयानन्तर शुद्ध तत्, क्षयार्थमुद्यमीयते ॥१४७॥ सर्वेषु क्षय जातेषु, ग्रासोन्तिमः प्रशिष्यते । वेदकं समये तस्मिन्,सम्यक्त्वंप्रबलंमतम् ॥१४८॥ क्षायिकपूर्वकाले च, वेदकमनुभूयते । पश्चाच्च क्षायिकं ज्ञयं,भिन्नतैतादृशी द्वयोः॥१४॥ छद्मस्थस्य च नो शुद्ध, चापायशुद्ध द्रव्यतः । शुद्ध केवलिनांज्ञयं, प्रोक्तंशास्त्रानुसारतः ॥१५०॥ कारकं रोचकं चैव, दीपकं दर्शनं तथो । त्रिविधं कथितं ज्ञयं, स्वरूपं तन्निगद्यते ॥१५॥ श्रद्धापूर्णप्रभावेन, महाव्रतस्य पालनम् । अप्रमत्तत्वभावेन, क्रियाणां करणं तथा ॥१५२॥ एतादृशी क्रियाशुद्धिः, यत्र कुत्र न लक्ष्यते।। तच्च कारक सम्यक्त्वं सप्तमे गुण भूमिके ॥१३॥ अप्रमत्तत्वभावेन, क्रियां कर्तुं न शक्यते । तक्रिया कारके चैव, प्रमोदतः विधीयते ॥१५४॥ तादृग् व्यक्तिश्च विज्ञया, रोचकदर्शनान्विता ।