________________
[८६]
योगयादृशस्थितिकं कर्म, बध्नाति प्रथमे क्षणे। द्वितीये समये तस्मात्,स्तोक स्थितिकता मता॥१०॥ तृतीये समये तस्मा द्वध्यते स्तोककालिकम् । चरमक्षणप्रय॑न्तम्, ज्ञातव्यं चैव भावतः ॥१०६॥ अपूवाणि च कार्याणि, अपूर्वकरणे च वै। क्रियन्ते शभयोगेन, आत्मशद्धि विशेषतः॥१०७॥ अपूर्ववीर्यसामग्री, करणेऽत्र प्रजायते । कदापि तादृशोनाभद्, यादृशोऽपूर्व यत्नके ॥१०॥ अनेन करणेनैव, मिथ्यात्वकर्मणां तथा। आद्यानाच कषायाणां, ग्रन्धिता प्रविभिद्यते॥१०॥ अपूर्वकरणे तस्याः , भेदनं खलु जायते। तादृक् कार्य्यस्य कर्तव्ये,प्रोत्साहःप्रबलो मतः॥११०॥ अपूर्वयत्नप्रावल्याद्, चापूर्वकार्य्यता भवेत् । ग्रन्थिं तेन ततोभित्वा, भावाग्रिमे च गच्छति ॥१११॥ अधिकाऽपि ततः शुद्धिः, अनिवृत्तिप्रयत्नके। विना सम्यक्त्वप्राप्तिञ्च, आगतंन निवर्तते ॥११२॥ वीर्योल्लासादि सामग्री, वृद्धिं गता यदाऽपि वै । तदा दर्शनमोहस्य, साफल्यं विजये भवेत् ॥११॥