________________
[ ८४ ]
योग
तानपवर्तयत्नेन, अल्पीकरोति शुद्धितः ॥ ८७॥ अशुभस्य च ह्रासःस्यात्, शुभस्य वर्द्धनं मतम् । रसाघातः स विज्ञेयः, रसाघातं चिकीर्षता ॥८८॥ अशुभरसद्वारेण, दुर्विपाकश्च जायते । शुभेन शुभवैपाकः प्राप्नोति नात्र संशयः ॥ ८६ ॥ अपवर्तन यत्नेन, व्रजेद्दुःख विपाकताम् ।
सुखविपाक सद्भावः समीपे वै प्रगच्छति ॥६०॥ पूर्व स्थितिरसाऽऽघातौ, परिणामाविशुद्धितः । स्वल्पस्वल्पौ च सञ्जातौ, अधुनातु विशेषतः॥ ६१ ॥ पूर्वापेक्षा विशुद्धिःसा, अधिकाप्यत्र जायते । ततः स्थितिरसाघातौ, क्रियेते चाधिकौतदा ॥६२॥ गुणश्रेणिश्च संक्रामौ, विविच्येते क्रमेण तौ । भावतः स्वान्तशुध्यर्थं, कर्म्मशास्त्रानुसारतः ॥६३॥ कर्महास विधानाय पूर्वे दैर्धिककालिके । कर्मणां राशयस्तोकाः, क्रियन्ते स्तोकभावतः ॥६४॥ कर्म्मणामत्र हासार्थं, स्वल्पकालेऽपि राशयः । बहव्यः नाशाय क्रियन्ते, अपूर्वं तच्च मन्यते ॥ ६५॥ अन्तर्मुहूर्त कालश्च, अपूर्वकरणे मतः ।
"
"