________________
[८०]
योग
षण्णां पल्योपमानाच,मध्येऽद्धायाःप्रयोजनम्॥५३॥ पल्योपमद्विपश्चानां, दशकोट्या गुणीयताम् । कालार्थकांक्षिणा ज्ञयः,स कालः सागरोपमः ॥५४॥ सागरदशकोटीनां, दशकोट्या च गुण्यते । सैवापसर्पिणी चोक्ता, उत्सर्पिण्यपि तादृशी ॥५॥ उत्सर्पिण्यवसर्पिण्योः, मेलने कालचक्रकम् । अनन्त कालचक्रण, पुद्गलावर्तकं मतम् ॥६॥ अनन्तपुद्गलावर्ताः, जीवेन संसृतौ कृताः। बिनाऽन्तं तस्य सम्यक्त्वं,प्राप्नोति न कदाचन॥५७॥ अनन्तासंख्य शब्दार्थो, व्युत्पत्या सदृशौ मतौ। अन्तो न विद्यते येषां,कालः सोऽनन्तको मतः॥२८॥ संख्या न विद्यते यस्थ, सःकालोऽसंख्यको मतः। व्युत्पत्या किन्तुचार्थानां,स्वीकारेनोफलं भवेत्॥५६॥ रुव्यर्थोऽत्र प्रवक्तव्यः, जैन शास्त्रानुसारतः। अनन्तस्याप्यनन्ताह्य, संख्यातानामसंख्यकाः॥६०॥ संख्यातानाश्च संख्याताः,भेदाः शास्त्रे निरूपिताः। अल्पबुद्धि मनुष्याणां, हृदये नेव विश्यते ॥६॥
१ द्विपंचानां कोटिनां