________________
-प्रदीप
[७] तस्य कालक्रमो नास्ति, ततःसर्व व्यवस्थितम्॥४४॥ अतः करणप्राप्तेऽपि, प्रमादरहितो भव । विना च ग्रन्थिभेदेन, प्रापणं तच्च निष्फलम् ॥४॥ यथाप्रवृतियत्नस्य, स्वरूपं प्राक् प्रपंचितम् । अथापूर्वप्रयत्नस्य, स्वरूपं प्रणिगद्यते ॥४६॥ पल्योपमस्य सारूप्यं, सम्यक्त्वे चोपयोगि तत् । प्रासंगिकं च कथ्येत, भव्यानां सुखहेतवे ॥४७॥ कूपदृष्टान्तद्वारेण, काल्पनिकेन सर्वथा । पल्योपमस्य सारूप्यं, प्रसंगाच्च निरूप्यते ॥४॥ उत्सेधाङ्गुलमानेन, अधस्तादेकयोजनम् । पृथुलेनाऽपि तन्मानं, कल्प्यते एककूपकम् ॥४६॥ दशाहजातबालस्य, देवकुर्वादिजन्मिनः । केशानां सूक्ष्मखंडेन, भर्तव्यं तच्च कूपकम् ॥५०॥ सम्पूर्णभृतकूपाद्धि, प्रतिवर्ष शत किल । एकैकखण्डनिष्कासे,रिक्तः कूपो यदा भवेत ॥५१॥ तत्कालः सोऽपि विज्ञयः, पल्योपमाभिधानकम् । तस्मिन् सखंडकेशानां, भरणं केन न कृतम् ॥५२॥ किन्तु भव्यावबोधाय, दृष्टान्तं कल्पितं किल।