________________
[७८]
योगसा जातिश्च शुभाज्ञया, सम्यक्त्वं जायते यतः। अजागलस्तनानीव, अन्या सर्वा च निष्फला ॥३६॥ अतः सम्यक्त्वलाभाय, यत्नं दृढ़तया कुरु । प्रोच्यते शुभभावेन, तत्स्वरूपं यथाक्रमम् ॥३७॥ यथाकरणयत्नञ्च, यथाऽभव्यशरीरिणः । बहुवारं च सम्प्राप्ताः, ग्रन्थिभेदेऽसमर्थकाः ॥३८॥ हासीकृता ह्यनेकैस्तु, पूर्वोक्तकर्मणां स्थितिः। अग्रे तेनैव गच्छन्ति, परिणामविशोधितः ॥३६॥ ततः प्रतिनिवर्तेत, वध्नाति कर्मतादृशम् । अधिकस्थितिकत्वं तत्, विशेषइति दृश्यताम्॥४०॥ पूर्वोक्तधर्मतारुण्य, कालक्रमो महात्मनाम् । अभव्यानाञ्च जीवानां,क्रमो न विद्यते क्वचित्॥४॥ एकपुदगलार्वादि, प्रोक्तं सर्वतु बोध्यताम् । भव्यजीवान् समाश्रित्य,अभव्यानाञ्च नैव तत्॥४२॥ मूलं नास्ति कुतः शाखा,दृष्टान्तोऽत्रापि भाव्यताम्। अभव्ये नास्ति सम्यक्त्वं,कुतश्च तादृशःक्रमः॥४३॥ यथाप्रवृतिनामाख्य', एक तादृशयत्नकम् । '१–अनेकशः।