________________
-प्रदीप
[७७] स्वल्पं प्रक्षिप्यते धान्यं, अस्वल्पमपसार्यते । तत्कार्य करणेनैव, धान्यं स्वल्पंतु तिष्ठति ॥२७॥ धान्यापकर्षण कार्य, चोपयोगं विना कृतम् । तथा विनोपयोगेन साऽकामनिर्जरा मता ॥२८॥ छेदनभेदनादीनां, क्षुधा-तृष्णादि वस्तूनाम् । ताडनादिक कष्टानां, सहनेऽकामनिर्जरा ॥ २६ ॥ पराधीनत्वसोढव्ये, पञ्चाऽग्न्यादितपस्यतः। एवं रीत्यैवचाज्ञान, कष्टानां सहने तथा ॥३०॥ संजातनिर्जरा याश्च, ताः किलाऽकाम निर्जराः । निर्जराभिश्च प्रोक्ताभि,कर्मणां च क्षयो मतः॥३१॥ यथाप्रवृत्तियत्नेन, महाकार्य कृतं तथा । यथानदीष्ठ पाषाणः, घटितो नहि केनचित् ॥३२॥ तथापि सुकुमारत्वं, प्रवाहे घर्षणेन च । अकामनिर्जरातो वै, कर्मणां जायते क्षयः ॥३३॥ तत्करणंच सर्वेण, जीवेनाप्तमनेकशः। ग्रंथिभेदःकृतोनव, तदाप्ते किं प्रयोजनम् ॥३४॥. यदि ग्रन्थिनवै भिन्ना, श्रद्धाप्राप्तिश्च नो कृता। तदा मनुष्यजातीनां, मीलने किंफलं भवेत् ॥३॥