________________
-प्रदीप
[८१] कर्मग्रन्थादिशास्त्रश्च, तूर्य सुपरिचिन्त्यताम् । अन्यथाकालसंख्याने, हृदयाह्या पद्धतिर्नहि ॥१२॥ किश्च पल्योपमानां हि, क्षेत्राद्धोद्धारभेदकाः। सूक्ष्मवादरभेदेन, षड्भेदाः परिकीर्तिताः ॥६॥ सागरोपमभेदानां, भेदा ज्ञया षडेव हि । अत्र प्रयोजनं यस्य, तत्स्वरूपं निरूपितम् ॥६॥ प्रकृतमनुसार्येतत्, व्याख्यानञ्च प्रकुर्वता। अपूर्वयत्न सारूप्यं, लिख्यते शुभभावतः ॥६॥ पूर्वप्रोक्तविशुद्ध श्व, शुद्धिरत्रैव चाधिका । वीर्योलासादिसामग्री, ग्रन्थिभेदप्रसाधिका॥६६॥ यदा तादृश सामय्याः, प्राप्तिः शीघ्र प्रजायते । तदातु ग्रन्थिभेदस्य,स्थितिःकियच्चिरा भवेत्॥१७॥ यादृशाऽध्यवसायस्य, पूर्व प्राप्तिः कदापिन । तदपूर्वकरणं वै, विज्ञयं सुखमिच्छता ॥१८॥ अपूर्वकार्यकाराद्वै, अपूर्वमिति कथ्यते । स्थितिघातो रसाख्यस्य, गुणश्रेणिगुणक्रमौ॥६६॥ कथितानि सुद्भावेन, कार्याणीति सुबन्धनम् । तत्स्वरूपं क्रमेणैव, कथ्यते गुरुयोगतः ॥७॥