________________
[ ४ ]
योग
॥ पञ्चमप्रकाशः ॥
चतुः शिक्षा व्रतानाञ्च, संक्षेपेण निरूपणम् । कृतं पूर्व प्रकाशेऽपि विना श्रद्धां न युज्यते ॥१॥ सम्यक्क्स्वरूप वर्णनं
स्वान्ते श्रद्धाधनं यस्य, जन्म तस्यैव सार्थकम् । हृदि श्रद्धावनं नास्ति, व्रतं तस्यच निष्फलम् ॥२॥ सहस्रविन्दु लेखेऽपि, एकांकञ्च कृतं न वै । यथा तेषाञ्च विन्दूनां गणना नोपयुज्यते ॥३॥ तथा व्रतेऽपि कर्तव्ये, सम्यक्त्वं यदि नो धृतम् । विन्दुसदृग् व्रतानाञ्च गणना नैव विद्यते ॥४॥ अतः सम्यक्त्वरत्नस्य, स्वरूपं किंचिदुच्यते । भव्यानां प्रतिबोधाय, स्वात्मनोऽपिहिताय च ॥५॥ अनादि काल संसारे, भ्रमतां कर्म योगतः । यथाप्रवृत्तियत्नश्च लभ्यतेऽनेकशः खलु ॥६॥ अध्यवसायवैशेष करणं प्रतिपादितम् । त्रिविधं तद्वि वोधव्यं, सम्यक्त्व साधनंमतम् ॥७॥ यथा प्रवृत्ति यत्नाख्य, चापूर्व करणं तथा । अनिवृति प्रयत्नंच, तात्पर्यार्थी निगद्यते ||८||