________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । अवद्धचंद त्ति अपकृष्टमर्द्धं चन्द्रस्याऽपार्द्धचन्द्रस्तस्य यत् संस्थानम् आकारो गजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति क्वचित् पाठः, तत्र अर्द्धशब्देन विभागमानं विवक्ष्यते, न तु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृताः, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतौ वक्षारपर्वताविति ।
जंबू इत्यादि तथैव, नवरम् अपरपार्श्वे गन्धमादनः पूर्वपार्श्वे माल्यवानिति।
[सू० ८६] जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयड्डपव्वया पन्नत्ता [तं] बहुसमतुल्ला जाव भारहए चेव दीहवेयड्ढे, एरावते चेव दीहवेयड्ढे। भारहए णं दीहवेयड्ढे दो गुहाओ पन्नत्ताओ बहुसमतुल्लाओ अविसेसमणाणत्ताओ अन्नमन्नं णातिवटुंति आयाम-विक्खंभुच्चत्त-संठाण-परिणाहेणं, तंजहा-तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिडिया जाव पलिओवमट्टितीया परिवसंति, तंजहा-कयमालए चेव नट्टमालए चेव । एरावए णं दीहवेयड्ढे दो गुहाओ पन्नत्ताओ जाव कयमालए चेव नहमालए चेव ५।।
[टी०] दो दीहवेयह त्ति, वृत्तवैताढ्यव्यवच्छेदार्थं दीर्घग्रहणम्, वैताढ्यौ विजयाढ्यौ वेति संस्कारः, तौ च भरतैरवतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रितौ तत्पादावगाढौ पञ्चाशद् विस्तृतौ आयतसंस्थितौ सर्वराजतावुभयतो बहिः काञ्चनमण्डनाङ्काविति ।। __ भारहए णमित्यादि, वैताढ्येऽपरतस्तमिश्रा गुहा गिरिविस्तारायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजला-निमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता गुहेति । तत्थ णं ति तयोः तमिस्रायां कृतमालक इतरस्यां नृत्तमालक इति । एरावएत्यादि तथैव ।
[सू० ८७] जंबूमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा पन्नत्ता बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तंजहाचुल्लहिमवंतकूडे चेव वेसमणकूडे चेव । जंबूमंदरदाहिणेणं महाहिमवंते