________________
___ जंबूमंदरस्स उत्तरदाहिणेणं हरिवरिस-रम्मतेसु वासेसु दो वट्टवेयड्डपव्वया पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव गंधावती चेव मालवंतपरियाए चेव १, तत्थ णं दो देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति, तंजहा-अरुणे चेव पउमे चेव २।।
[टी०] जंबू इत्यादि, दो वट्टवेयड्डपव्वय त्ति द्वौ वृत्तौ पल्याकारत्वाद्, वैताढ्यौ नामतः, तौ च तौ पर्वतौ चेति विग्रहः, सर्वतः सहस्रपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, तत्थ त्ति तयोर्वृत्तवैताढ्ययोः क्रमेण स्वाति-प्रभासौ देवौ वसतः, तद्भवनभावादिति । एवं हरिवर्षे गन्धापाती रम्यकवर्षे माल्यवत्पर्यायः, देवौ च क्रमेणैवेति ॥
[सू० ८५] जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए कुराए पुव्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वता पन्नत्ता बहुसम जाव सोमणसे चेव विजुप्पभे चेव १।
जंबूमंदरउत्तरेणं उत्तरकुराए कुराए पुव्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पन्नत्ता बहु जाव गंधमादणे चेव मालवंते चेव ।
[टी०] जंबू इत्यादि, पुव्वावरे पासे त्ति, पार्श्वशब्दस्य प्रत्येकं सम्बन्धात् पूर्वपार्श्वेऽपरपार्श्वे च, किंभूते ? एत्थ त्ति प्रज्ञापकेनोपदय॑माने क्रमेण सौमनसविद्युत्प्रभौ प्रज्ञप्तौ, किम्भूतौ ? अश्वस्कन्धसदृशावादौ निम्नौ पर्यवसान उन्नतौ, यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपे तु पञ्चशतोच्छ्रिताविति, आह च
वासहरगिरी तेणं रुंदा पंचेव जोयणसयाई । चत्तारि सउव्विद्धा ओगाढा जोयणाण सयं ॥ पंचसए उव्विद्धा ओगाढा पंच गाउयसयाइं । अंगुलअसंखभागो विच्छिन्ना मंदरतेणं ॥ [बृहत्क्षेत्र० २६०-२६१] वक्खारपव्वयाणं आयामो तीस जोयणसहस्सा । दोन्नि य सया णवहिया छच्च कलाओ चउण्हं पि ॥ [बृहत्क्षेत्र० २५९] त्ति ।