________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । महाणुभागा महायसा महाबल महासोक्ख त्ति, तत्र द्युति: शरीराभरणदीप्तिः, अनुभाग: अचिन्त्या शक्तिर्वैक्रियकरणादिका, यशः ख्यातिः, बलं सामर्थ्य शरीरस्य, सौख्यम् आनन्दात्मकम्, महेसक्खा इति क्वचित् पाठः, महेशौ महेश्वरावित्याख्या ययोस्तौ महेशाख्याविति, पल्योपमं यावत् स्थिति: आयुर्ययोस्तौ तथा । गरुडः सुपर्णकुमारजातीयः, वेणुदेवो नाम्ना, अणाढिओ त्ति नाम्ना ।
[सू० ८३] जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासहरपव्वया पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवटुंति आयामविक्खंभुच्चत्तोव्वेध-संठाण-परिणाहेणं, तंजहा-चुल्लहिमवंते चेव सिहरी चेव, एवं महाहिमवंते चेव रुप्पी चेव, एवं निसढे चेव णीलवंते चेव ३॥
[टी०] जंबू इत्यादि, वर्ष क्षेत्रविशेषं धारयतो व्यवस्थापयत इति वर्षधरौ चुल्लो त्ति महदपेक्षया लघुहिमवान् चुल्लहिमवान् भरतानन्तरः, शिखरी पुनर्यत्परमैरवतम्, तौ च पूर्वापरतो लवणसमुद्रावबद्धावायामतश्च
चउवीस सहस्साइं णव य सए जोयणाण बत्तीसे ।
चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ [बृहत्क्षेत्र० ५२] २४९३२ १, एवं शिखरिणोऽपि।
तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ पञ्चविंशतियोजनान्यवगाढौ आयतचतुरस्रसंस्थानसंस्थितौ, परिणाहस्तु तयोःपणयालीस सहस्सा सयमेगं नव य बारस कलाओ । अद्धं कलाए हिमवंतपरिरओ सिहरिणो चेवं ॥ [ ] ति, ४५१०९ १९ ३८ ।
एवमिति यथा हिमवच्छिखरिणौ जंबूदीवेत्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति, एतेषामायामादयो विशेषतः क्षेत्रसमासाद् अवसेयाः ।
[सू० ८४] जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवतेरण्णवतेसु वासेसु दो वट्टवेयड्डपव्वता पत्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावती चेव वियडावती चेव १, तत्थ णं दो देवा महिड्डिया जाव पलिओवमट्टितीया परिवसंति, तंजहा-साती चेव पभासे चेव २॥