________________
वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव महाहिमवंतकूडे चेव वेरुलियकूडे चेव । एवं निसढे वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव निसढकूडे चेव रुयगकूडे चेव ३॥
जंबूमंदरउत्तरेणं नीलवंते वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव तंजहा-नीलवंतकूडे चेव उवदंसणकूडे चेव । एवं रुप्पिम्मि वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव तंजहा-रुप्पिकूडे चेव मणिकंचणकूडे चेव। एवं सिहरिम्मि वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव तंजहा-सिहरिकूडे चेव तिगिंच्छिकूडे चेव ३॥
[टी०] जंबू इत्यादि, हिमववर्षधरपर्वते ह्येकादश कूटानि सिद्धायतन १क्षुल्लहिमवत् २-भरत ३-इला ४-गङ्गा ५-श्री ६-रोहितांशा ७-सिन्धु ८-सुरा ९हैमवत १०-वैश्रवण ११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटं ततः क्रमेणापरतोऽन्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आद्ये सिद्धायतनं पञ्चाशद्योजनायामं तदर्द्धविष्कम्भं षट्त्रिंशदुच्चम् अष्टयोजनायामैश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितम्, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदर्द्धविस्तृतास्तन्निवासिदेवतासिंहासनवन्त इति। इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानामेषां मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वैश्रमणकूटं द्विस्थानकानुरोधेनेति, आह च
कत्थइ देसग्गहणं कत्थइ घेप्पंति निरवसेसाई । उक्कम-कमजुत्ताइं कारणवसओ निउत्ताइं ॥ [विशेषाव० ३८८] ति । कूटसङ्ग्रहश्चायम्वेयड्ड ९ मालवंते ९ विज्जुप्पह ९ निसह ९ नीलवंते य ९ । णव णव कूडा भणिया एक्कारस सिहरि ११ हिमवंते ११ ॥ रुप्पि ८ महाहिमवंते ८ सोमणसे ७ गंधमायणनगे य ७ । अट्टष्ट सत्त सत्त य वक्खारगिरीसु चत्तारि ॥ [बृहत्क्षेत्र० १३२-१३३] त्ति ।