________________
७२
नोदर्शनाचारश्चारित्रादिरिति । चारित्राचारः समिति-गुप्तिरूपोऽष्टधा, आह चपणिहाणजोगजुत्तो पंचहिं समिईहिं तीहि उ गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्वो ॥ [दशवै०नि० १८५, निशीथभा० ३५] त्ति । नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं चबारसविहम्मि वि तवे सब्भिंतरबाहिरे कुसलदिढे । अगिलाए अणाजीवी नायव्वो सो तवायारो ॥ [दशवै०नि० १८६, निशीथभा० ४२] त्ति। वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं चअणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायव्वो वीरियायारो ॥ [दशवै०नि० १८७, निशीथभा० ४३] त्ति । [सू० ७७] दो पडिमाओ पन्नत्ताओ, तंजहा-समाहिपडिमा चेव उवहाणपडिमा चेव१।
दो पडिमाओ पन्नत्ताओ,तंजहा-विवेगपडिमा चेव विउस्सग्गपडिमा चेवर। दो पडिमाओ पन्नत्ताओ, तंजहा-भद्दा चेव सुभद्दा चेव ३॥ दो पडिमाओ पन्नत्ताओ, तंजहा-महाभद्दा चेव सव्वतोभद्दा चेव ४। दो पडिमाओ पन्नत्ताओ, तंजहा-खुड्डिया चेव मोयपडिमा, महल्लिया चेव मोयपडिमा ५।
दो पडिमाओ पन्नत्ताओ, तंजहा-जवमज्झा चेव चंदपडिमा, वइरमज्झा चेव चंदपडिमा ६॥
[टी०] अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह- दो पडिमेत्यादि, प्रतिमा प्रतिपत्तिः, प्रतिज्ञेति यावत्, समाधानं समाधिः प्रशस्तभावलक्षणः, तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च । उपधानं तपः, तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति। विवेचनं विवेकः त्यागः, स चान्तराणां कषायादीनां बाह्यानां गण-शरीर-भक्त-पानादीनामनुचितानाम्, तत्प्रतिपत्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा कायोत्सर्गकरणमेवेति । भद्रा पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टयकायो