________________
७३
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । त्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति । महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति । मोकप्रतिमा प्रश्रवणप्रतिज्ञा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे- खुड्डियं णं मोयपडिमं पडिवण्णस्से [व्यवहार०९।२४२] त्यादि, इयं च द्रव्यतः प्रश्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याधुपसर्गसहनमिति, एवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति । ___यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावृद्धि-हानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि- शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिनमेकहान्याऽमावास्यायामेकमेव यस्यां भुङ्क्ते सा यवमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति ।
[सू० ७८] दविहे सामाइए पन्नत्ते, तंजहा-अगारसामाइए चेव अणगारसामाइए चेव ।
[टी०] प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह-दुविहेत्यादि, समानां ज्ञानादीनामायो लाभः समायः, स एव सामायिकमिति, तद् द्विविधम् अगारवदनगारस्वामिभेदाद्, देश-सर्वविरती इत्यर्थः । [सू० ७९] दोण्हं उववाते पन्नत्ते, तंजहा-देवाणं चेव नेरइयाणं चेव ९। दोण्हं उव्वट्टणा पन्नत्ता, तंजहा-णेरइयाणं चेव भवणवासीणं चेव २॥ दोण्हं चयणे पन्नत्ते, तंजहा-जोइसियाणं चेव वेमाणियाणं चेव ३।
दोण्हं गब्भवक्कंती पन्नत्ता, तंजहा-मणुस्साणं चेव पंचेंदियतिरिक्खजोणियाणं चेव ४॥
दोण्हं गब्भत्थाणं आहारे पन्नत्ते, तंजहा-मणुस्साण चेव पंचेंदियतिरिक्ख