________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । त्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः ६, आत्ता: गृहीताः स्वीकृता जीवेन परिग्रहमात्रतया शरीरादितया वा ७, इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः ८, कान्ताः कमनीया विशिष्टवर्णादियुक्ताः ९, प्रिया: प्रीतिकराः इन्द्रियाह्लादकाः १०, मनसा ज्ञायन्ते शोभना एत इत्येवं विकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाद्ये ते मनोज्ञाः ११, मनसो मता वल्लभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा १२ इति, व्याख्यानान्तरं त्वेवम्- इष्टा: वल्लभाः सदैव जीवानां सामान्येन, कान्ता: कमनीयाः सदैव तद्भावेन, प्रियाः अद्वेष्याः सर्वेषामेव, मनोज्ञाः मनोरमाः कथयाऽपि, मनआमा मनःप्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः सर्वत्रेति ।
पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषट्कविशिष्टान् दुविहा सद्देत्यादिसूत्रत्रिंशताऽऽह, कण्ठ्या चेयमिति । - [सू० ७६] दुविहे आयारे पन्नत्ते, तंजहा-णाणायारे चेव नोनाणायारे चेव १। णोनाणायारे दुविहे पन्नत्ते, तंजहा-दंसणायारे चेव नोदंसणायारे चेव २॥ नोदंसणायारे दुविहे पन्नत्ते, तंजहा-चरित्तायारे चेव नोचरित्तायारे चेव ३। णोचरित्तायारे दुविहे पन्नत्ते, तंजहा-तवायारे चेव वीरियायारे चेव ४।
[टी०] उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराज्जीवधर्मानाह- दुविहे इत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरम् आचरणमाचारो व्यवहारः, ज्ञानं श्रुतज्ञानम्, तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आह चकाले विणए बहुमाणुवहाणे चेव तह अनिण्हवणे । वंजणमत्थ तदुभए अट्ठविहो नाणमायारो ॥ [दशवै०नि० १८४, निशीथभा० ८] त्ति ।
नोज्ञानाचारः एतद्विलक्षणो दर्शनाचार इति । दर्शनं सम्यक्त्वम्, तदाचारो निःशङ्कितादिरष्टविध एव, आह च
णिस्संकिय १ निक्कंखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ॥[दशवै०नि० १८२, निशीथभा० २३]
त्ति।