________________
७०
दुविहा पोग्गला पन्नत्ता, तंजहा-परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३॥ दुविहा पोग्गला पन्नत्ता, तंजहा-सुहुमा चेव बायरा चेव ४। दुविहा पोग्गला पन्नत्ता, तंजहा-बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव ५। दुविहा पोग्गला पन्नत्ता, तंजहा-परियाइय च्चेव अपरियाइय च्चेव ६। दुविहा पोग्गला पन्नत्ता, तंजहा-अत्ता चेव अणत्ता चेव ७।
दुविहा पोग्गला पन्नत्ता, तंजहा-इट्ठा चेव अणिट्ठा चेव ८, एवं कंता ९, पिया १०, मणुन्ना ११, मणामा १२॥
दुविहा सद्दा पन्नत्ता, तंजहा-अत्ता चेव अणत्ता चेव १, एवमिट्ठा जाव मणामा ६। दुविहा रूवा पन्नत्ता, तंजहा-अत्ता चेव अणत्ता चेव, जाव मणामा ६। एवं गंधा ६, रसा ६, फासा ६, एवमेक्कक्के छ आलावगा भाणियव्वा। _[टी०] पुद्गलानेव द्वादशसूत्र्या निरूपयन्नाह- दुविहेत्यादि, भिन्नाः विचटिता इतरे त्वभिन्नाः १, स्वयमेव भिद्यत इति भिदुरम्, भिदुरत्वं धर्मो येषां ते भिदुरधर्माण: अन्तर्भूतभावप्रत्ययोऽयम्, प्रतिपक्षः प्रतीत एवेति २, परमाश्च ते अणवश्चेति परमाणवः, नोपरमाणवः स्कन्धाः ३, सूक्ष्माः येषां सूक्ष्मपरिणामः, शीतोष्ण-स्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शाः, ते च भाषादयः, बादरास्तु येषां बादरः परिणामः पञ्चादयश्च स्पर्शाः, ते चौदारिकादयः ४, पार्श्वेन स्पृष्टा देहत्वचा छुप्ता रेणुवत् पार्श्वस्पृष्टास्ततो बद्धा: गाढतरं श्लिष्टाः तनौ तोयवत्, पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टाः, आह च- पुटुं रेणुं व तणुम्मि बद्धमप्पीकयं पएसेहिं [विशेषाव० ३३७] ति, एते च घ्राणेन्द्रियादिग्रहणगोचराः । तथा नोबद्धाः पार्श्वस्पृष्टा इत्येकपदप्रतिषेधे श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्तम्
पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥ [विशेषाव० ३३६] त्ति ।
उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति ५, परियाइय