________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।
शब्दस्ततो घनः शुषिरश्चेति व्यपदिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितम्, तदपि घनं भाणकवत् शुषिरं काहलादिवत्, तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यतेततं वीणादिकं ज्ञेयम्, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ [ ] इति । विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति ६, भूषणं नुपूरादि, नोभूषणं भूषणादन्यत् ७, तालो हस्ततालः, लत्तिय त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा लत्तियासद्दे त्ति पार्णिप्रहारशब्दः ८ ।
उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाह- दोहीत्यादि, द्वाभ्यां स्थानाभ्यां कारणाभ्यां शब्दोत्पादः स्याद् भवेत् ८, संहन्यमानानां च सङ्घातमापद्यमानानां सतां कार्यभूतः शब्दोत्पादः स्यात्, पञ्चम्यर्थे वा षष्ठीति संहन्यमानेभ्य इत्यर्थः, पुद्गलानां बादरपरिणामानां यथा घण्टा-लालयोः, एवं भिद्यमानानां च वियुज्यमानानां यथा वंशदलानामिति।
[सू० ७४] दोहिं ठाणेहिं पोग्गला साहन्नंति, तंजहा-सई वा पोग्गला साहन्नंति, परेण वा पोग्गला साहन्नंति १। दोहिं ठाणेहिं पोग्गला भिज्जति, तंजहा-सई वा पोग्गला भिजंति, परेण वा पोग्गला भिजति २॥
दोहिं ठाणेहिं पोग्गला परिपडंति, तंजहा-सई वा पोग्गला परिपडंति, परेण वा पोग्गला परिपाडिजति ३, एवं परिसडंति ४, विद्धस्संति ५।
[टी०] पुद्गलसङ्घात-भेदयोरेव कारणनिरूपणायाह-दोहीत्यादि सूत्रपञ्चकं कण्ठ्यम्। नवरं स्वयं वेति स्वभावेन वा अभ्रादिष्विव पुद्गलाः संहन्यन्ते सम्बध्यन्ते, कर्मकर्तृप्रयोगोऽयम्, परेण वा पुरुषादिना वा संहन्यन्ते संहताः क्रियन्ते, कर्मप्रयोगोऽयम्। एवं भिद्यन्ते विघटन्ते, तथा परिपतन्ति पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेर्निमित्तादगुल्यादिवत्, विध्वस्यन्ते विनश्यन्ति घनपटलवदिति ५।
[सू० ७५] दुविहा पोग्गला पन्नत्ता, तंजहा-भिन्ना चेव अभिन्ना चेव १॥ दुविहा पोग्गला पन्नत्ता, तंजहा-भेउरधम्मा चेव नोभेउरधम्मा चेव २।