________________
सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विशरीरत्वस्य चोपपद्यमानत्वादिति ८ । अत एव सामान्यत आह- देवा दुविहेत्यादि कण्ठ्यम् ।
॥ द्विस्थानकस्य द्वितीय उद्देशको समाप्तः ॥
[अथ तृतीय उद्देशकः] [सू० ७३] दविहे सद्दे पन्नत्ते, तंजहा-भासासद्दे चेव णोभासासद्दे चेव १। भासासद्दे दुविहे पन्नत्ते, तंजहा-अक्खरसंबद्ध चेव नोअक्खरसंबद्ध चेव २। णोभासासद्दे दुविहे पन्नत्ते, तंजहा-आउज्जसद्दे चेव णोआउज्जसद्दे चेव ३॥ आउज्जसद्दे दुविहे पन्नत्ते, तंजहा-तते चेव वितते चेव ४। तते दुविहे पन्नत्ते, तंजहा-घणे चेव झुसिरे चेव ५। एवं वितते वि ६। णोआउजसद्दे दुविहे पन्नत्ते, तंजहा-भूसणसद्दे चेव नोभूसणसद्दे चेव ७। णोभूसणसद्दे दुविहे पन्नत्ते, तंजहा-तालसद्दे चेव लत्तियासद्दे चेव ८। ___ दोहिं ठाणेहिं सहप्पाए सिया, तंजहा-साहनंताण चेव पुग्गलाणं सहप्पाए सिया, भिजंताण चेव पोग्गलाणं सद्दुप्पाए सिया ।।
[टी०] उक्तो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसम्बन्धः- अनन्तरोद्देशके जीवपदार्थोऽनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गल-जीवधर्म-क्षेत्रेन्द्रलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्याऽस्येदमादिसूत्राष्टकम्दविहेत्यादि । अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- इहानन्तरोद्देशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते, इत्येवम्सम्बन्धस्याऽस्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः १, अक्षरसम्बद्धो वर्णव्यक्तिमान्, नोअक्षरसम्बद्धस्त्वितर इति २, आतोद्यं पटहादि, तस्य यः शब्दः स तथा, नोआतोद्यशब्दो वंशस्फोटादिरवः ३, ततं यत्तन्त्री-वर्धादिबद्धमातोद्यम् ४, तच्च किञ्चिद् घनं यथा पिञ्जनिकादि, किञ्चिच्छुषिरं यथा वीणा-पटहादिकम्, तज्जनितः