________________
द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः । भक्ताशयदेशस्य प्लीहादिना रुद्धत्वाद् देशतः, अन्यथा तु सर्वतः ७, वेदयति अनुभवति, देशेन हस्तादिना अवयवेन, सर्वेण सर्वावयवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणामतः ८, निर्जरयति त्यजत्याहारितान् परिणमितान् वेदितान् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति ९, अथवैतानि चतुर्दशापि सूत्राणि विवक्षितविषयवस्त्वपेक्षया नेयानि, तत्र देश-सर्वयोजना यथा देशेनापीति देशतोऽपि शृणोति विवक्षितशब्दानां मध्ये कांश्चिच्छ्रणोतीति, सर्वेणापीति सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वं वा विवक्षितमवभासयत्येवं प्रभासयति, एवं विकुर्वणीयं विकुरुते, परिचारणीयं स्त्रीशरीरादि परिचारयति, भाषणीयापेक्षया देशतो भाषां भाषते सर्वतो वेति, अभ्यवहार्यमाहारयति, आहृतं परिणमयति, वेद्यं कर्म वेदयति देशतः सर्वतो वा, एवं निर्जरयत्यपि ।
देश-सर्वाभ्यां सामान्यतः श्रवणाधुक्तं विशेषविवक्षायां प्रधानत्वाद् देवानां तानाश्रित्य तदाह- दोहीत्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति ।
[सू० ७२] मरुया देवा दुविहा पन्नत्ता, तंजहा- एगसरीरि चेव बिसरीरि चेव १। एवं किन्नरा २, किंपुरिसा ३, गंधव्वा ४, णागकुमारा ५, सुवन्नकुमारा ६, अग्गिकुमारा ७, वायुकुमारा ८। देवा दुविहा पनत्ता, तंजहा-एगसरीरि चेव बिसरीरि चेव ।
॥ बिट्ठाणस्स बीओ उद्देसओ समत्तो ॥ [टी०] देशतः सर्वतो वा एतेऽनन्तरोक्ता भावाः शरीर एव सति भवन्तीति देवानां च प्रधानत्वात् तेषामेव व्यक्तितः शरीरनिरूपणायाह-मरुयेत्यादि सूत्राष्टकं कण्ठ्यम्, नवरं मरुतो देवा लोकान्तिकदेवविशेषाः, यत उक्तम्- सारस्वता १-ऽऽदित्य २ वय ३ रुण ४ गतोय ५ तुषिता ६ ऽव्याबाध ७ मरुतो ८ ऽरिष्टाश्च ९ [तत्त्वार्थ० ४।२६] इति। ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात्, तदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरम्, तदस्ति येषां ते तथा, अथवा भवधारणीयमेव यदा तदैकशरीराः यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराद्यास्त्रयो व्यन्तराः, शेषा भवनपतय इति, परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थम्,