________________
६
परिपूर्णस्तं लोकं चतुर्दशरज्ज्वात्मकमिति ।
वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रकारद्वयमाह- दोहीत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं विउव्विएणं ति कृतवैक्रियशरीरेणेति ।
[सू० ७१] दोहिं ठाणेहिं आया सद्दाइं सुणेति, तंजहा-देसेण वि आया सद्दाइं सुणेति, सव्वेण वि आया सद्दाइं सुणेति १, एवं रूवाइं पासति २, गंधाइं अग्घाति ३, रसाइं आसादेति ४, फासाइं पडिसंवेदेति ५।
दोहिं ठाणेहिं आया ओभासति, तंजहा-देसेण वि आया ओभासति, सव्वेण वि आया ओभासति १॥ एवं पभासति २, विकुव्वति ३, परियारेति ४, भासं भासति ५, आहारेति ६, परिणामेति ७, वेदेति ८, निजरेति ९। __दोहिं ठाणेहिं देवे सद्दाइं सुणेति, तंजहा-देसेण वि देवे सद्दाइं सुणेति, सव्वेण वि देवे सद्दाइं सुणेति, जाव निजरेति १४।।
[टी०] ज्ञानाधिकार एवेदमपरमाह- दोहीत्यादि पञ्चसूत्री, स्थानाभ्यां प्रकाराभ्यां देसेण वि त्ति देशेन च शृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वैरिन्द्रियैः शृणोतीति सर्वेणेति व्यपदिश्यते । एवमिति यथा शब्दान् देश-सर्वाभ्याम् एवं रूपादीनपि, नवरं जिह्वादेशस्य प्रसुप्त्यादिनोपघाताद्देशेनाऽऽस्वादयतीत्यवसेयमिति । ___ शब्दश्रवणादयो जीवपरिणामा उक्ताः, तत्प्रस्तावात् तत्परिणामान्तराण्याहदोहीत्यादि, नव सूत्राणि सुगमानि, नवरम् अवभासते द्योतते देशेन खद्योतकवत्, सर्वतः प्रदीपवत्, अथवा अवभासते जानाति, स च देशतः फड्डकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति १, एवमिति देश-सर्वाभ्यां प्रभासते प्रकर्षेण द्योतते २, विकरोति देशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति ३, परियारेड त्ति मैथुन सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि ४, भाषां भाषते देशेन जिह्वाग्रादिना, सर्वेण समस्तताल्वादिस्थानैः ५, आहारयति देशेन मुखमात्रेण, सर्वेण ओजआहारापेक्षया ६, आहारमेव परिणमयति परिणामं नयति खल-रसविभागेन,