________________
द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः । अभव्वे, सुक्कपक्खिए, णो कण्हपक्खिए [ ] त्ति, शुक्लानां वा आस्तिकत्वेन विशुद्धानां पक्षो वर्गः शुक्लपक्षः, तत्र भवाः शुक्लपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका इति १५ । चरमदण्डके येषां स नारकादिभवश्चरमः, पुनस्तेनैव नोत्पत्स्यन्ते सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति १६ । एवमेते आदितोऽष्टादश दण्डकाः।
[सू० ७०] दोहिं ठाणेहिं आया अहेलोगं जाणति पासति, तंजहासमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, असमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, आहोहि समोहतासमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति ११ एवं तिरियलोगं २ उड्ढलोगं ३ केवलकप्पं लोगं ४।। __दोहिं ठाणेहिं आता अहेलोगं जाणति पासति, तंजहा-विउव्वितेण चेव अप्पाणेणं आता अहेलोगं जाणति पासति, अविउव्वितेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, आहोधि विउव्वियाविउव्वितेण चेव अप्पाणेणं आता अहेलोगं जाणति पासति । एवं तिरियलोगं २ उड्ढलोगं ३ केवलकप्पं लोगं ४॥
[टी०] प्राग् वैमानिकाश्चरमाचरमत्वेनोक्ताः, ते चावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य प्रकारद्वयमाह- दोहीत्यादि सूत्रचतुष्टयम् । द्वाभ्यां स्थानाभ्यां प्रकाराभ्यामात्मगताभ्यामात्मा जीवोऽधोलोकं जानात्यवधिज्ञानेन पश्यत्यवधिदर्शनेन समवहतेन वैक्रियसमुद्घातगतेनाऽऽत्मना स्वभावेन, समुद्घातान्तरगतेन वा, असमवहतेन त्वन्यथेति, एतदेव व्याख्याति– आहोहीत्यादि यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, परमावधेर्वाऽधोवर्त्यवधिर्यस्य सोऽधोवधिरात्मा नियतक्षेत्रविषयावधिज्ञानी, स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवहतेनेति । एवमित्यादि, एवमिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं तिर्यग्लोकादयोऽपीति, सुगमानि च तिर्यग्लोकोर्ध्वलोककेवलकल्पलोकसूत्राणि, नवरं केवल: परिपूर्णः स चासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्प: समयभाषया