________________
६ । इन्द्रियदण्डके सेन्द्रियाः इन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रिया: ७ । पर्याप्तदण्डके पर्याप्ता: पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति ८ । संज्ञिदण्डके संजिनो मनःपर्याप्त्या पर्याप्तकाः, तया अपर्याप्तकास्तु ये ते असंज्ञिन इति । एवं पंचिंदियेत्यादि, अस्यायमर्थः-यथा नारकाः संज्यसंज्ञिभेदेनोक्ताः एवं विगलेंदियवज्ज त्ति, विकलानि अपरिपूर्णानि सङ्ख्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन् द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये चतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संज्यसंज्ञितया वाच्याः । दण्डकावसानमाह- जाव वेमाणिय त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति । क्वचिद् जाव वाणमंतर त्ति पाठस्तत्रायमर्थःयेऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषूत्पद्यन्ते न ज्योतिष्क-वैमानिकेष्विति तेषामसंज्ञित्वाभावादिहाग्रहणमिति ९ । भाषादण्डके भाषका भाषापर्याप्त्युदये, अभाषकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां भाषापर्याप्तिर्नास्तीत्यत आह- एवमित्यादि १० । सम्यग्दृष्टिदण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादनं स्यादपीत्युक्तम्-एगिंदियवज्जा सव्वे त्ति ११ । संसारदण्डके परीत्तसंसारकाः सङ्क्षिप्तभवा इतरे त्वितरे इति १२ । स्थितिदण्डके कालः कृष्णोऽपि स्यात्, समय आचारोऽपि स्यादतः कालश्चासौ समयश्चेति कालसमयः सङ्ख्येयो वर्षप्रमाणतः स यस्यां सा सङ्ख्येयकालसमया, सा स्थितिः अवस्थानं येषां ते सङ्ख्येयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्ख्येयभागादिस्थितयः । एवमिति नारकवद् द्विविधस्थितिका दण्डकोक्ताः, किं सर्वेऽपि ?, नेत्याह- पञ्चेन्द्रियाः असुरादयः, किमुक्तं भवति ? एकेन्द्रियविकलेन्द्रियवर्जाः, एतेषां हि द्वाविंशतिवर्षसहस्रादिका सङ्ख्यातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे ?, नेत्याह-यावद् व्यन्तरा: व्यन्तरान्ताः, एते हि उभयस्वभावा भवन्ति, ज्योतिष्क-वैमानिकास्तु असङ्ख्यातकालस्थितय एवेति १३ । बोधिदण्डके बोधिः जिनधर्मः, सा सुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि १४ । पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः अभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः, शुक्लत्वं च क्रियावादित्वेनेति, आह च– किरियावाई भव्वे, णो