________________
द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः।।
दुविधा नेरइया पन्नत्ता, तंजहा-भासगा चेव अभासगा चेव, एवमेगिंदियवजा सव्वे १०॥
दुविहा नेरइया पन्नत्ता, तंजहा-सम्मदिट्ठीया चेव, मिच्छादिट्ठीया चेव, एगिदियवजा सव्वे ११।
दुविहा नेरइया पन्नत्ता, तंजहा-परित्तसंसारिया चेव अणंतसंसारिया चेव, जाव वेमाणिया १२।
दुविहा नेरइया पन्नत्ता, तंजहा-संखेजकालसमयट्टितीया चेव असंखेजकालसमयद्वितीया चेव, एवं पंचेंदिया एगिंदियविगलिंदियवजा जाव वाणमंतरा १३॥
दुविहा नेरइया पन्नत्ता, तंजहा-सुलभबोहिया चेव दुल्लभबोहिया चेव, जाव वेमाणिया १४।
दुविहा नेरइया पन्नत्ता, तंजहा-कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया १५।
दुविहा नेरइया पन्नत्ता, तंजहा-चरिमा चेव अचरिमा चेव, जाव वेमाणिया
१६।
[टी०] जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकप्ररूपणामाह । तत्र भव्यदण्डकः कण्ठ्यः १। अनन्तरदण्डके अणंतर त्ति एकस्मादनन्तरमुत्पन्ना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपपन्नकाः, विवक्षितदेशापेक्षया वा येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया त्वितरे इति २ । गतिदण्डके गतिसमापनका नरकं गच्छन्तः, इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चल-स्थिरत्वापेक्षया ते ज्ञेया इति ३ । प्रथमसमयदण्डके पढमेत्यादि, प्रथमः समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४ । आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ ये नाडीमध्ये मृत्वा तत्रैवोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति ५ । उच्छ्वासदण्डके उच्छ्वसन्तीत्युच्छ्वासकास्तत्पर्याप्तिपर्याप्तकाः, तदन्ये तु नोच्छ्वासकाः