________________
द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः । तार्थस्याभिहितत्वात् किं पुनरिह तगणनेनेति ?, उच्यते, तत्रानुष्ठानफलदर्शनप्रसङ्गेन भेदतश्चोक्तत्वाद्, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषः, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति । __ [सू० ६८] नेरइया दुगतिगा दुयागतिया पन्नत्ता, तंजहा-नेरइए नेरइएसु उववजमाणे मणुस्सेहिंतो वा पंचेंदियतिरिक्खजोणिएहिंतो वा उववजेजा, से चेव णं से नेरइए णेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेजा । एवं असुरकुमारा वि, णवरं से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छेज्जा, एवं सव्वदेवा । ___ पुढविकाइया दुगइया दुयागइया पन्नत्ता, तंजहा- पुढविकाइए पुढविकाइएसु उववजमाणे पुढविकाइएहिंतो वा नोपुढविकाइएहिंतो वा उववजेजा, से चेव णं पुढविकाइए पुढविकाइयत्तं विप्पयहमाणे पुढविकाइयत्ताए वा नोपुढविकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा। __ [टी०] तत्रगता वेदनां वेदयन्तीत्युक्तमतो नारकादीनां गतिं तद्विपर्यस्तामागतिं च निरूपयन्नाह- नेरइयेत्यादि दण्डकः कण्ठ्यः, नवरं नैरयिका नारका द्वयोः मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवावधिभूताभ्यामागतिः आगमनं येषां ते तथा, उदितनारकायु रक एव व्यपदिश्यते, अत उच्यते णेरइए णेरइएसु त्ति, नारकेषु मध्ये इत्यर्थः, इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनाऽऽगतिरुक्ता, से चेव णं से त्ति यो मानुषत्वादितो नरकं गतः स एवासौ नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, विप्पजहमाणे त्ति विप्रजहन् परित्यजन्, इह च भूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्ता, इत्थं च व्याख्यातं 'तेजस्कायिका व्यागतयस्तिर्यङ्-मनुष्यापेक्षया एकगतयस्तिर्यगपेक्षये'ति वाक्यमुपजीव्येति, एवं असुरकुमारा वि त्ति, नारकवद्वक्तव्या इत्यर्थः, नवरं ति केवलमयं विशेषः-तिर्यक्षु न पञ्चेन्द्रियेष्वेवोत्पद्यन्ते पृथिव्यादिष्वपि तदुत्पत्तेरित्यतः सामान्यत आह– से चेव णं से इत्यादि जाव तिरिक्खजोणियत्ताए वा गच्छेज्ज त्ति, एवं