________________
६०
ऊोपपन्नकाः, ते च द्विधा-कल्पोपपन्नकाः सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नका: ग्रैवेयका-ऽनुत्तरलक्षणविमानोत्पन्नाः, कल्पातीता इत्यर्थः, तथा परे चारोववन्नग त्ति चरन्ति भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्ति-निमित्ताश्रयणात, तत्रोपपन्नकाचारोपपन्नकाः ज्योतिष्काः, न च पादपोपगमनादे-कॊतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि- चारे ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः समयक्षेत्रबहिर्वत्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समयक्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयोऽपि भवन्तीत्यत आह- गतिं गमनं समिति सततमापनकाः प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्विविधानां सदा नित्यं समितं सन्ततं यत् पापं कर्म ज्ञानावरणादि, सततबन्धकत्वात् जीवानाम्, क्रियते बध्यते, कर्मकर्तृप्रयोगोऽयम्, भवति सम्पद्यत इत्यर्थः, ते देवास्तस्य कर्मणः आबाधाकालातिक्रमे सति तत्थगया वि त्ति अपिरेवकारार्थस्तस्य चैवं प्रयोग:- तत्रैव देवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवात्, इह तत्रान्यत्रशब्दाभ्यां भव एव विवक्षितः, न क्षेत्र-शयना-ऽऽसनादीति, गता: वर्तमाना एके केचन देवा वेदनाम् वेदयन्ति अनुभवन्ति, अन्नत्थगया वि त्ति देवभवादन्यत्रैव भवान्तरे गता उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे नाश्रितम्, द्वित्वाधिकारादिति। ___ सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह– नेरइयाणमित्यादि प्रायः सुगमम्, नवरं तत्थगया वि अन्नत्थगया वि एवमभिलापेन दण्डको नेयो यावत् पञ्चेन्द्रियतिर्यञ्चोऽत एवाह- जावेत्यादि ।। ___ मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा- इहगता वि एगइया इति, सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देशं विमुच्य मनुष्यसूत्रे इहेत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन ‘इदं' शब्दस्य विषयत्वादिति, अत एवाह- मणुस्सवज्जा सेसा एक्कगम त्ति, शेषाः व्यन्तर-ज्योतिष्क-वैमानिका एकगमाः तुल्याभिलापाः । ननु प्रथमसूत्र एव ज्योतिष्क-वैमानिकदेवानां विवक्षि