________________
द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः । योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीर-कषायादीति संलेखना तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना, तस्याः झूसण त्ति जोषणा सेवा, तया, तल्लक्षणधर्मेणेत्यर्थः, झूसियाणं ति सेवितानाम्, तद्युक्तानामित्यर्थः, तया वा झूषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा, तेषाम्, पादपवदुपगतानाम् अचेष्टतया स्थितानाम्, अनशनविशेष प्रतिपन्नानामित्यर्थः, कालं मरणकालमनवकाङ्क्षतां तत्रानुत्सुकानां विहाँ स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं तत् सुगमत्वादिति।
॥ द्विस्थानकस्य प्रथमोद्देशको समाप्तः ॥
[अथ द्वितीय उद्देशकः] [सू० ६७] जे देवा उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारट्टिइया गतिरतिया गतिसमावण्णगा तेसि णं देवाणं सता समितं जे पावकम्मे कजति तत्थगता वि एगतिया वेयणं वेदेति, अन्नत्थगता वि एगतिया वेयणं वेदेति ।
णेरइयाणं सता समियं जे पावे कम्मे कजइ तत्थगया वि एगइया वेयणं वेदेति अन्नत्थगया वि एगतिता वेयणं वेदेति,जाव पंचेंदियतिरिक्खजोणियाणं। ___ मणुस्साणं सता समितं जे पावे कम्मे कजति इहगया वि एगइया वेयणं वेदेति, अन्नत्थगता वि एगतिया वेयणं वेदेति । मणुस्सवज्जा सेसा एक्कगमा।
[टी०] इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्यनेन सम्बन्धेन आयातस्यास्योद्देशकस्येदमादिसूत्रम्- जे देवेत्यादि । अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः- प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्ध-वेदने प्रतिपादयन्नाह– जे देवेत्यादि । ये देवाः सुराः वक्ष्यमाणविशेषणेभ्यो वैमानिका अनशनादेरुत्पन्नाः, किंभूताः? उड्ढ त्ति ऊर्ध्वलोकस्तत्रोपपन्नकाः उत्पन्ना