________________
॥ बिट्ठाणस्स पढमो उद्देसओ समत्तो ॥ [टी०] पूर्वसूत्रे भव्याः शरीरिण उक्ताः, इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह-दो दिसाओ इत्यादि, द्वे दिशौ काष्ठे अभिगृह्य अङ्गीकृत्य, तदभिमुखीभूयेत्यर्थः, कल्पते युज्यते, निर्गता ग्रन्थाद् धनादेरिति निर्ग्रन्थाः साधवस्तेषाम्, निर्ग्रन्थ्यः साध्व्यस्तासाम्, प्रव्राजयितुं रजोहरणादिदानेन, प्राचीनं प्राचीम्, पूर्वामित्यर्थः, उदीचीनम् उदीचीम्, उत्तरामित्यर्थः, उक्तं च
पुव्वामुहो उ उत्तरमुहो व्व देज्जाऽहवा पडिच्छेज्जा।। जाए जिणादओ वा हवेज्ज जिणचेइयाई वा ॥ [पञ्चव० १३१] इति ।
एवमिति यथा प्रव्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुं शिरोलोचतः १, शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थों ग्राहयितुम्, आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुम् ३, संभोजयितुं भोजनमण्डल्यां निवेशयितुम् ४, संवासयितुं संस्तारकमण्डल्यां निवेशयितुम् ५, सुष्ठ आ मर्यादया अधीयत इति स्वाध्यायः अङ्गादिः, तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुद्देष्टं योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधान्निवेदयितुमिति ९, प्रतिक्रमितुं प्रतिक्रमणं कर्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुम्, आह च- सचरित्तपच्छयावो निंद [आव०नि० १०६]त्ति ११, गर्हितुं गुरुसमक्षं तानेव जगप्सितम, आह च– गरहा वि तहाजातीयमेव नवरं परप्पयासणय [आव०नि० १०६३] त्ति १२, विउट्टित्तए त्ति व्यतिवर्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्धं विच्छेदयितुमित्यर्थः १३, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति १४, अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुम् अभ्युपगन्तुमिति १५, यथार्हम् अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम् ।
तपःकर्म निर्विकृतिकादिकं प्रतिपत्तुम् अभ्युपगन्तुमिति १६ । सप्तदशं सूत्रं साक्षादेवाह- दो दिसेत्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव