________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । बेइंदियाणमित्यादि, अस्थि-मांस-शोणितैर्बद्धं नद्धं यत्तत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः।।
पंचेदियेत्यादि, पञ्चेन्द्रियतिर्यङ्-मनुष्याणां पुनरयं विशेषो यदस्थि-मांस-शोणितस्नायु-शिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति ।
प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह– विग्गहेत्यादि, विग्रहगतिः वक्रगतिर्यदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां द्वे शरीरे, इह तैजस-कार्मणयोर्भेदेन विवक्षेति, एवं दण्डकः ।
शरीराधिकारात् शरीरोत्पत्तिं दण्डकेन निरूपयन्नाह– नेरइयाणमित्यादि, कण्ठ्यम्, किन्तु राग-द्वेषजनितकर्मणा शरीरोत्पत्तिः सा राग-द्वेषाभ्यामेवेति व्यपदिश्यते, कार्ये कारणोपचारादिति जाव वेमाणियाणं ति दण्डकः सूचितः ।
शरीराधिकाराच्छरीरनिवर्त्तनसूत्रम्, तदप्येवम्, नवरमुत्पत्तिः आरम्भमात्रम्, निवर्त्तना तु निष्ठानयनमिति ।
शरीराधिकाराच्छरीरवतां राशिद्वयेन प्ररूपणामाह-दो कायेत्यादि। त्रसनामकर्मोदयात् त्रस्यन्तीति त्रसाः, तेषां कायो राशिस्त्रसकायः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः, तेषां काय: स्थावरकाय इति । त्रस-स्थावरकाययोरेव द्वैविध्यप्ररूपणार्थं तसकायेत्यादि सूत्रद्वयं सुगमं चेति ।
[सू० ६६] दो दिसाओ अभिगिज्झ कप्पइ निग्गंथाण वा णिग्गंथीण वा पव्वावित्तए- पाईणं चेव उदीणं चेव १। एवं मुंडावित्तए २, सिक्खावित्तए ३, उवट्ठावित्तए ४, संभोइत्तए ५, संव(वा?)सित्तए ६, सज्झायमुद्दिसित्तए ७, सज्झायं समुद्दिसित्तए ८, सज्झायमणुजाणित्तए ९, आलोइत्तए १०, पडिक्कमित्तए ११, निंदित्तए १२, गरहित्तए १३, विउत्तिए १४, विसोहित्तए १५, अकरणयाए अन्भुट्टित्तए १६, अहारिहं पायच्छित्तं तवोकम्मं पडिवजित्तए १७ ।
दो दिसातो अभिगिज्झ कप्पति निग्गंथाण वा निग्गंथीण वा अपच्छिममारणंतियसंलेहणाझूसणाझूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए, तंजहा-पाईणं चेव उदीणं चेव १८।