________________
ओरालिए । मणुस्साण वि एवं चेव ।
विग्गहगइसमावण्णगाणं नेरइयाणं दो सरीरगा पन्नत्ता, तंजहा-तेयए चेव कम्मए चेव । निरंतरं जाव वेमाणियाणं ।
नेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तंजहा-रागेण चेव दोसेण चेव। जाव वेमाणियाणं ।
नेरइयाणं दुट्ठाणनिव्वत्तिए सरीरए पन्नत्ते, तंजहा-रागनिव्वत्तिए चेव दोसनिव्वत्तिए चेव । जाव वेमाणियाणं ।
दो काया पन्नत्ता, तंजहा-तसकाए चेव थावरकाए चेव । तसकाए दुविहे पन्नत्ते, तंजहा-भवसिद्धिए चेव अभवसिद्धिए चेव १। एवं थावरकाए वि २॥
[टी०] अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्तम्, लोकश्च शरीरि-शरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरदण्डकेन शरीरप्ररूपणामाह- णेरइयाणमित्यादि प्रायः कण्ठ्यम्, नवरं शीर्यते अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरम्, तदेव शटनादिधर्मतयाऽनुकम्पितत्वात् शरीरकम्, ते च द्वे प्रज्ञप्ते जिनैः, अभ्यन्तर्मध्ये भवमाभ्यन्तरम्, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः सह क्षीर-नीरन्यायेन लोलीभवनात् भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिर्शयिनामप्रत्यक्षत्वाच्चेति । अत्राभ्यन्तरं कम्मए त्ति कार्मणशरीरनामकर्मोदयनिर्वर्त्यमशेषकर्मणां प्ररोहभूमिराधारभूतम्, तथा संसार्यात्मनां गत्यन्तरसङ्क्रमणे साधकतमं तत् कार्मणवर्गणास्वरूपम्, कर्मैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यम्, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति । एवं देवाणं भाणियव्वं ति, अयमर्थःयथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाम् असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मण-वैक्रिययोरेव तेषां भावात्, चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति ।
पुढवीत्यादि, पृथिव्यादीनां तु बाह्यमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिवृत्तमौदारिकम्, केवलमेकेन्द्रियाणामस्थ्यादिविरहितम्, वायूनां वैक्रियं यत्तन्न विवक्षितं प्रायिकत्वात् तस्येति ।