________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः ।
व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः । द्रव्यसूत्रे गतिर्गमनमात्रमेव, शेषं तथैवेति २२ ।
दुविहा पुढवीत्यादि षट्सूत्री, अनन्तरं सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढा: आश्रितास्त एवाऽनन्तरावगाढकाः, येषां तु व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम् अव्यवधानेनावगाढा अनन्तरावगाढा इतरे तु परम्परावगाढा इति २८ ।
[सू० ६४] दुविहे काले पन्नत्ते, तंजहा-ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव ।
दुविहे आगासे पन्नत्ते, तंजहा-लोगागासे चेव अलोगागासे चेव २॥ [टी०] अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाऽऽकाशयोxिसूत्र्या प्ररूपणामाह, दुविहेत्यादि कल्यते सङ्ख्यायतेऽसावनेन वा कलनं वा कलासमूहो वेति कालः वर्त्तना-परत्वा-ऽपरत्वादिलक्षणः, स चावसर्पिण्युत्सर्पिणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तः, अन्यथाऽवस्थितलक्षणो महाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति । __ आगासे त्ति सर्वद्रव्यस्वभावानाकाशयति आदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम्, तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं लोकाकाशमिति, विपरीतमलोकाकाशमिति । _ [सू० ६५] णेरइयाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरगे चेव बाहिरगे चेव । अब्भंतरए कम्मए, बाहिरए वेउव्विए । एवं देवाणं भाणियव्वं ।
पुढविकाइयाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरए चेव बाहिरए चेव। अब्भंतरऐ कम्मए, बाहिरए ओरालिगे । जाव वणस्सइकाइयाणं। __बेइंदियाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरए चेव बाहिरए चेव। अब्भंतरए कम्मए, अट्ठि-मंस-सोणियबद्धे बाहिरए ओरालिए । जाव चउरिंदियाणं। ___पंचिंदियतिरिक्खजोणियाणं दो सरीरंगा पन्नत्ता, तंजहा-अब्भंतरए चेव बाहिरए चेव । अब्भंतरए कम्मए, अट्ठि-मंस-सोणिय-प्रहारु-छिराबद्धे बाहिरए