________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । यस्मिन् वा स तथा साधुः संयमो वेति एकादशगुणस्थानवर्तीति, क्षीणकषायो द्वादशगुणस्थानवर्तीति । उवसंतेत्यादि सूत्रद्वयं प्रागिव । खीणेत्यादि, छादयत्यात्मस्वरूपं यत्तच्छद्म ज्ञानावरणादिघातिकर्म, तत्र तिष्ठतीति छद्मस्थः अकेवली, शेषं तथैव । केवलम् उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति । सयंबुद्धत्यादि नव सूत्राणि गतार्थान्येवेति ।
[सू० ६३] दुविहा पुढविकाइया पन्नत्ता, तंजहा-सुहमा चेव बायरा चेव १। एवं जाव दुविहा वणस्सतिकाइया पन्नत्ता, तंजहा-सुहुमा चेव बायरा चेव ५।
दुविहा पुढविकाइया पन्नत्ता, तंजहा-पज्जत्तगा चेव अपज्जत्तगा चेव ६। एवं जाव वणस्सतिकाइया १०।
दुविहा पुढविकाइया पन्नत्ता, तंजहा-परिणता चेव अपरिणता चेव ११, एवं जाव वणस्सतिकाइया १५। दुविहा दव्वा पन्नत्ता, तंजहा-परिणता चेव अपरिणता चेव १६॥
दुविहा पुढविकाइया पन्नत्ता, तंजहा-गतिसमावन्नगा चेव अगतिसमावन्नगा चेव १७, एवं जाव वणस्सतिकाइया २१। दुविहा दव्वा पन्नत्ता, तंजहागतिसमावन्नगा चेव अगतिसमावन्नगा चेव २२॥
दुविहा पुढविकाइया पन्नत्ता, तंजहा-अणंतरोगाढगा चेव परंपरोगाढगा चेव २३, जाव दव्वा २८।।
[टी०] उक्तः संयमः, स च जीवाजीवविषय इति पृथिव्यादिजीवस्वरूपमाहदुविहा पुढवीत्यादि अष्टाविंशतिः सूत्राणि । तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः, समासान्तविधौः, त एव स्वार्थिककप्रत्यया(विधानात्)त् पृथिवीकायिकाः, पृथिव्येव वा काय: शरीरम्, सोऽस्ति येषां ते पृथिवीकायिकाः ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयात् बादरा ये पृथिवी-नगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति । एवमिति पृथिवीसूत्रवदप्तेजोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम् । दुविहेत्यादि पर्याप्तनामकर्मोदयवर्तिनः पर्याप्तकाः, ये हि चतस्रः